मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३६, ऋक् ५

संहिता

वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् ।
स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न्भरे॑ धाः ॥

पदपाठः

वृषा॑ । त्वा॒ । वृष॑णम् । व॒र्ध॒तु॒ । द्यौः । वृषा॑ । वृष॑ऽभ्याम् । व॒ह॒से॒ । हरि॑ऽभ्याम् ।
सः । नः॒ । वृषा॑ । वृष॑ऽरथः । सु॒ऽशि॒प्र॒ । वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो । वृषा॑ । व॒ज्रि॒न् । भरे॑ । धाः॒ ॥

सायणभाष्यम्

हेइन्द्र त्वा त्वां वृषा वर्षित्रीद्यौः द्योतयित्रीस्तुतिः द्योततेर्दीव्यतेर्वास्तुत्यर्थस्येदंरूपं वृषणं कामानांवर्षकं त्वां वर्धतु वर्धयतु वृषात्वंवृषभ्यांसेक्तृभ्यांहरिभ्यांवहसे यज्ञंप्रत्युह्यसे हेसुशिप्र शोभनहनो वृषक्रतो वर्षणकर्मन् हेवज्रिन् वज्रयुक्तेन्द्र सत्वंवृषावृषरथश्चसन् नोस्मान्भरेसंग्रामे भरणवतियज्ञेवाधाः धारय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः