मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३६, ऋक् ६

संहिता

यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वान्त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट ।
यूने॒ सम॑स्मै क्षि॒तयो॑ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ॥

पदपाठः

यः । रोहि॑तौ । वा॒जिनौ॑ । वा॒जिनी॑ऽवान् । त्रि॒ऽभिः । श॒तैः । सच॑मानौ । अदि॑ष्ट ।
यूने॑ । सम् । अ॒स्मै॒ । क्षि॒तयः॑ । न॒म॒न्ता॒म् । श्रु॒तऽर॑थाय । म॒रु॒तः॒ । दु॒वः॒ऽया ॥

सायणभाष्यम्

इयंश्रुतरथस्यराज्ञोदानस्तुतिःयोराजावाजिनीवानन्नवान्श्रुतरथोरोहितौरोहितवर्णौवाजिनौवेजनवन्तावश्वौत्रिभिःशतैःगवांधनानांवाउक्तसंख्याभिः सचमानौसंगच्छमानौसंगच्छमानौअदिष्ट दातेर्दिशतेर्वालुङीदंरूपं यूनेसर्वत्रमिश्रयित्रे नित्यतरुणायवा अस्मै श्रुतरथाय क्षितयः सर्वाः प्रजाः दुवोया तृतीयैकवचनस्ययाजादेशः परिचर्ययासंनमंतां प्रणताभवन्तु सेवन्तामित्यर्थः हेमरुतइतिइन्द्रसहायभूतानांमरुतांसंबोधनम् ॥ ६ ॥

संभानुनेतिपंचर्चंपंचमंसूक्तं अत्रेरार्षंत्रैष्टुभमैन्द्रं संभानुनापंचात्रिरित्यनुक्रमणिका विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः