मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३७, ऋक् १

संहिता

सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठ॒ः स्वञ्चा॑ः ।
तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा॑य सु॒नवा॒मेत्याह॑ ॥

पदपाठः

सम् । भा॒नुना॑ । य॒त॒ते॒ । सूर्य॑स्य । आ॒ऽजुह्वा॑नः । घृ॒तऽपृ॑ष्ठः । सु॒ऽअञ्चाः॑ ।
तस्मै॑ । अमृ॑ध्राः । उ॒षसः॑ । वि । उ॒च्छा॒न् । यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ ॥

सायणभाष्यम्

सूर्यस्यभानुनातेजसासह आजुह्वानः सर्वत्रहूयमानः कर्मणिकर्तृप्रत्ययः घृतपृष्ठः प्रदीप्तज्वालः घृतयुक्तपृष्ठप्रदेशोवा स्वंचाः स्वंचनोग्निः संयततेसम्यक् प्रयत्नंकरोति उदयकालेह्यग्नयःप्रज्वाल्यन्ते तस्मात्कारणात् योयजमानः इन्द्राय सुनवामेत्याहबूतेअध्वर्युंप्रति तस्मैयजमानाय अम्रुध्राः अहिंसिताः उषसोव्युच्छान् व्युछन्तु उदयकालेग्निः प्रज्वालिवस्तस्मात्सोमयागंकुर्मइतियोब्रूतेतस्यसुदिनानि- निभवंतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः