मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३७, ऋक् २

संहिता

समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते ।
ग्रावा॑णो॒ यस्ये॑षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु॑म् ॥

पदपाठः

समि॑द्धऽअग्निः । व॒न॒व॒त् । स्ती॒र्णऽब॑र्हिः । यु॒क्तऽग्रा॑वा । सु॒तऽसो॑मः । ज॒रा॒ते॒ ।
ग्रावा॑णः । यस्य॑ । इ॒षि॒रम् । वद॑न्ति । अय॑त् । अ॒ध्व॒र्युः । ह॒विषा॑ । अव॑ । सिन्धु॑म् ॥

सायणभाष्यम्

समिद्धोग्निः प्रदीप्ताग्निः स्तीर्णबर्हिः प्रस्तृतदर्भोयंयजमानोवनवत् संभजते युक्तग्रावा नियुक्ताभिषवपाषाणः सुतसोमोभिषुतसोमोजराते जरति स्तौति यस्याध्वर्योर्ग्रावाणोभिषवसाधनाइषिरंएषणीयंगमनशीलंवाशब्दंवदन्ति सोध्वर्युर्हविषासहसिंधु अवनेजनीरपः अवायत् अवगच्छाति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः