मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३७, ऋक् ३

संहिता

व॒धूरि॒यं पति॑मि॒च्छन्त्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒राम् ।
आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥

पदपाठः

व॒धूः । इ॒यम् । पति॑म् । इ॒च्छन्ती॑ । ए॒ति॒ । यः । ई॒म् । वहा॑ते । महि॑षीम् । इ॒षि॒राम् ।
आ । अ॒स्य॒ । श्र॒व॒स्या॒त् । रथः॑ । आ । च॒ । घो॒षा॒त् । पु॒रु । स॒हस्रा॑ । परि॑ । व॒र्त॒या॒ते॒ ॥

सायणभाष्यम्

इयंवधूरिन्द्रस्यपत्नी पतिमिच्छन्ती स्वप्रियंयज्ञगमनायप्रकृतमिच्छन्त्येतिअनुगच्छति यइन्द्रः ईमेनांमहिषींवहाते वहति इषिरांगमनवतीं अरयेन्द्रस्यरथः आअर्वागस्मदभिमुखंश्रवस्यात् अन्नमिच्छन्ति आचघोषात् आघुष्यतिशब्दयति पुरु अत्यधिकंसहस्रा सहस्राणिधनानि परिपरितोवर्तयाते वर्तयति प्रापयति श्रवस्यादाचघुष्यादितिवा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः