मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३७, ऋक् ४

संहिता

न स राजा॑ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् ।
आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥

पदपाठः

न । सः । राजा॑ । व्य॒थ॒ते॒ । यस्मि॑न् । इन्द्रः॑ । ती॒व्रम् । सोम॑म् । पिब॑ति । गोऽस॑खायम् ।
आ । स॒त्व॒नैः । अज॑ति । हन्ति॑ । वृ॒त्रम् । क्षेति॑ । क्षि॒तीः । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ॥

सायणभाष्यम्

सराजानव्यथते व्यथितोनभवति यस्मिन्राजनितदीयेयज्ञे इन्द्रस्तीव्रंमदजनकंसोमंपिबति गोसखायं विकारेप्रकृतिशब्दः क्षीरादिमिश्रणवन्तं सराजासत्वनैः सत्वभिरनुचरैः आसर्वतः अजति गच्छति हन्तिचवृत्रं पापं वैरिणंवा क्षेतिगच्छतिक्षितीः प्रजाः अथवाक्षितीः निवासान् निवसते सुभगः शोभनसुखोनामनामकंधनंइन्द्रस्यस्तोत्रंवापुष्यन् पोषयन् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः