मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३७, ऋक् ५

संहिता

पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥

पदपाठः

पुष्या॑त् । क्षेमे॑ । अ॒भि । योगे॑ । भ॒वा॒ति॒ । उ॒भे इति॑ । वृतौ॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । सम् । ज॒या॒ति॒ ।
प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । यः । इन्द्रा॑य । सु॒तऽसो॑मः । ददा॑शत् ॥

सायणभाष्यम्

पुष्यात् पोषयेत् बंध्वादीन् क्षेमे प्राप्तस्यधनस्यरक्षणे योगे अलब्धस्यप्राप्तौचाभिभवातिभवति अभीत्यनर्थकोधात्वर्थानुवादीवा प्रभुर्भवतीत्यर्थः तथा उभे वृतौवर्तमानेसंयतीनियते अहोरात्रे संजयाति सम्यक् जयति तेसुखकरेस्यातामित्यर्थः किंच सप्रियोभवति सूर्येतथाग्नाअग्नौप्रियोभवति यइन्द्रायसुतसोमोददाशत् सोमंददाति ॥ ५ ॥

उरोष्टइतिपंचर्चंषष्ठंसूक्तं अत्रेरार्षमानुष्टुभमैन्द्रं उरोरानुष्टुभमित्यनुक्रान्तं विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः