मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३८, ऋक् २

संहिता

यदी॑मिन्द्र श्र॒वाय्य॒मिषं॑ शविष्ठ दधि॒षे ।
प॒प्र॒थे दी॑र्घ॒श्रुत्त॑मं॒ हिर॑ण्यवर्ण दु॒ष्टर॑म् ॥

पदपाठः

यत् । ई॒म् । इ॒न्द्र॒ । श्र॒वाय्य॑म् । इष॑म् । श॒वि॒ष्ठ॒ । द॒धि॒षे ।
प॒प्र॒थे । दी॒र्घ॒श्रुत्ऽत॑मम् । हिर॑ण्यऽवर्ण । दु॒स्तर॑म् ॥

सायणभाष्यम्

हेइन्द्र शविष्ठ अतिशयेनबलवन् यत् इषमन्नंश्रवाय्यंश्रवणीयं ईं सर्वतोदावो धारयसि ददासिवा इषशब्दोनपुंसकलिंगोप्यस्ति हेहिरण्यवर्णेन्द्र तदन्नं पप्रथेप्रथते कथदीर्घश्रुत्तमं अतिदूरश्रवणीयतमं सर्वत्रकीर्त्यमित्यर्थः दुष्टरं अनभिभाव्यं उक्तलक्षणंप्रथते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः