शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒सापः॑ ।
उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ॥
शुष्मा॑सः । ये । ते॒ । अ॒द्रि॒ऽवः॒ । मे॒हना॑ । के॒त॒ऽसापः॑ ।
उ॒भा । दे॒वौ । अ॒भिष्ट॑ये । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒थः॒ ॥
हेअद्रिवोवज्रवन्निन्द्र तेत्वदीयाः येशुष्मासोबलभूतामरुतःसन्ति कीद्रुशास्ते मेहना मंहनीयाः केतसापः प्रज्ञापकंकर्मान्तरिक्षंवास्पृशन्त उभौदेवौ त्वंच मरुत्समूहश्चेत्युभौ युवांदिवश्च द्युलोकात् ग्मश्च भूमेःसकाशात् अभिष्टये अभितोगमनाय राजथः ईशाथे ॥ ३ ॥