मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३८, ऋक् ४

संहिता

उ॒तो नो॑ अ॒स्य कस्य॑ चि॒द्दक्ष॑स्य॒ तव॑ वृत्रहन् ।
अ॒स्मभ्यं॑ नृ॒म्णमा भ॑रा॒स्मभ्यं॑ नृमणस्यसे ॥

पदपाठः

उ॒तो इति॑ । नः॒ । अ॒स्य । कस्य॑ । चि॒त् । दक्ष॑स्य । तव॑ । वृ॒त्र॒ऽह॒न् ।
अ॒स्मभ्य॑म् । नृ॒म्णम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । नृ॒ऽम॒न॒स्य॒से॒ ॥

सायणभाष्यम्

उतो अपिच हेवृत्रहन्निन्द्र नोस्मभ्यं कस्यचिदनिर्देश्यस्यदक्षस्यप्रवृद्धस्यादातुर्वास्यतवस्वभूतेभ्योस्मभ्यं पुनः श्रुतिरादरार्था नृम्णं नृमणं धनमाभरआहर हेइन्द्र यतस्त्वमस्मभ्यंनृमणस्यसे धनमिच्छसि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः