नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म॑ञ्छतक्रतो ।
इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ॥
नु । ते॒ । आ॒भिः । अ॒भिष्टि॑ऽभिः । तव॑ । शर्म॑न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
इन्द्र॑ । स्याम॑ । सु॒ऽगो॒पाः । शूर॑ । स्याम॑ । सु॒ऽगो॒पाः ॥
हेशतक्रतो इन्द्र ते तवाभिरभिष्टिभिः अभिगमनैर्नु शीघ्रं समृद्धाभवेमेतिशेषः हेइन्द्र तवशर्मन् शर्मणि सुखेसति सुगोपाः स्याम भवेम हेशूर तवशर्मणिसुगोपाः शोभनरक्षणाःस्याम भवेम पुनरुक्तिरादरार्था ॥ ५ ॥
यदिन्द्रचित्रेतिपंचर्चंसप्तमंसूक्तं अत्रेरार्षं ऎन्द्रं अंत्यापंक्तिः शिष्टापंत्यन्तरिभाषयानुष्टुभः यदिन्द्रपंक्तयन्तमित्यनुक्रमणिका आभिप्लविकेषुक्थ्येषुतृतीयसवनेआद्यस्तृचोच्छावाकस्यवैकल्पिकस्तोत्रियः सूत्रितंच-यदिन्द्रचित्रमेहनायस्तेसाधिष्ठोवसइति ।