मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३९, ऋक् १

संहिता

यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।
राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥

पदपाठः

यत् । इ॒न्द्र॒ । चि॒त्र॒ । मे॒हना॑ । अस्ति॑ । त्वाऽदा॑तम् । अ॒द्रि॒ऽवः॒ ।
राधः॑ । तत् । नः॒ । वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो । उ॒भ॒या॒ह॒स्ति । आ । भ॒र॒ ॥

सायणभाष्यम्

हेइन्द्र हेचित्र चायनीय हेअद्रिवोवज्रवन् यत् मेहनामेहनीयं त्वादातं त्वयादातव्यं राधोधनमस्ति तद्धनं हेविदद्वसो लब्धधनेन्द्र नोस्मभ्यं उभयाहस्ति उभाभ्यांहस्ताभ्यां आभर आहर अत्र यदिन्द्रचित्रचायनीयंमंहनीयंधनमस्तीत्यादिनिरुक्तंद्रष्टव्यम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०