मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३९, ऋक् २

संहिता

यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र ।
वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥

पदपाठः

यत् । मन्य॑से । वरे॑ण्यम् । इन्द्र॑ । द्यु॒क्षम् । तत् । आ । भ॒र॒ ।
वि॒द्याम॑ । तस्य॑ । ते॒ । व॒यम् । अकू॑पारस्य । दा॒वने॑ ॥

सायणभाष्यम्

हेइन्द्र यत् द्युक्षमन्नं वरेण्यं वरणीयं मन्यसे तत् द्युक्षं आभरास्मभ्यं ते तवसंबन्धिनोवयं तस्य तादृशस्योक्तलक्षणस्याकूपारस्य अकुत्सितः पारोन्तोयस्यतादृशस्यान्नस्य दावने दाने विद्याम स्याम ॥ २ ॥ वाजपेयेअतिरिक्तोक्थ्येयत्तेदित्स्वेषा सूत्रितंच-यत्तेदित्सुप्रराध्यंत्वामिच्छवसस्पतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०