मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३९, ऋक् ३

संहिता

यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् ।
तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥

पदपाठः

यत् । ते॒ । दि॒त्सु । प्र॒ऽराध्य॑म् । मनः॑ । अस्ति॑ । श्रु॒तम् । बृ॒हत् ।
तेन॑ । दृ॒ळ्हा । चि॒त् । अ॒द्रि॒ऽवः॒ । आ । वाज॑म् । द॒र्षि॒ । सा॒तये॑ ॥

सायणभाष्यम्

हेइन्द्र ते तव यद्दित्सुदानेषु प्रराध्यं प्रकर्षेणस्तुत्यं श्रुतं विश्र्तं बृहत् महत् मनःअस्ति तेनमनसा हेअद्रिवोवज्रवन्निन्द्र दृह्ळाचित् दृढमपि वाजमन्नं आदर्षि आदरयसि सातयेस्मत्संभजनायलाभायवा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०