मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३९, ऋक् ४

संहिता

मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् ।
इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥

पदपाठः

मंहि॑ष्ठम् । वः॒ । म॒घोना॑म् । राजा॑नम् । च॒र्ष॒णी॒नाम् ।
इन्द्र॑म् । उप॑ । प्रऽश॑स्तये । पू॒र्वीभिः॑ । जु॒जु॒षे॒ । गिरः॑ ॥

सायणभाष्यम्

मघोनां हविर्लक्षणधनवतां वोयुष्माकं मंहिष्ठं अतिशयेनपूज्यं चर्षणीनांमनुष्याणांराजानं इन्द्रं उपउपेत्य प्रशस्तये प्रशंसितुं पूर्वीभिः पुरातनीभिः वाग्भिःगिरः स्तोतारोजुजुषे सेवन्ते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०