मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४०, ऋक् ४

संहिता

ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ ।
यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिन्द्र॑ः ॥

पदपाठः

ऋ॒जी॒षी । व॒ज्री । वृ॒ष॒भः । तु॒रा॒षाट् । शु॒ष्मी । राजा॑ । वृ॒त्र॒ऽहा । सो॒म॒ऽपावा॑ ।
यु॒क्त्वा । हरि॑ऽभ्याम् । उप॑ । या॒स॒त् । अ॒र्वाङ् । माध्य॑न्दिने । सव॑ने । म॒त्स॒त् । इन्द्रः॑ ॥

सायणभाष्यम्

ऋजीषी सवनद्वयेभिश्खुतस्यगतसारस्यसोमरसस्यतृतीयसवने आप्यायाभिषुतोयोस्तिसऋजीषः सोमः सोस्यास्तीतिऋजीषी वज्री वज्रवान् वृषभोवर्षिता तुराषाट् तुराणांत्वरमाणानांशत्रूणांसोढा शुष्मी बलवान् राजा ईश्वरः सर्वस्य वृत्रहा वृत्रस्यहन्ता सोमपावा सोमरसस्य पाता एवंमहानुभावइन्द्रोहरिभ्यांयुक्त्वारथंयोजयित्वोपयासत् उपगच्छतु अर्वागस्मदभिमुखंआगच्छतु माध्यंदिनेसवनेमत्सत् माद्यतुसोमेनेन्द्रः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११