मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४०, ऋक् ७

संहिता

मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् ।
त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥

पदपाठः

मा । माम् । इ॒मम् । तव॑ । सन्त॑म् । अ॒त्रे॒ । इ॒र॒स्या । द्रु॒ग्धः । भि॒यसा॑ । नि । गा॒री॒त् ।
त्वम् । मि॒त्रः । अ॒सि॒ । स॒त्यऽरा॑धाः । तौ । मा॒ । इ॒ह । अ॒व॒त॒म् । वरु॑णः । च॒ । राजा॑ ॥

सायणभाष्यम्

इदंसूर्यवाक्यं हेअत्रे मामिमं ईदृगवस्थं मां तवसन्तं तवस्वभूतमिरस्यान्नेच्छया द्रुग्धाद्रोग्धा असुरोभियसा भयजनकेनतमसा अन्धकारेण मानिगारीत् मागिरतु किंच हेमित्र त्वंमित्रोसि प्रमीतेःसकाशान्त्राताभवसि सत्यराधाः सत्यधनश्च तौ राजावरुणश्च त्वंच तौ युवां मामामिहावतं रक्षतं अत्रिरेवमित्रउच्यते वरुणश्चयुवाम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२