यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥
यम् । वै । सूर्य॑म् । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।
अत्र॑यः । तम् । अनु॑ । अ॒वि॒न्द॒न् । न॒हि । अ॒न्ये । अश॑क्नुवन् ॥
अत्रिकृतंसामर्थ्यमनुवदति यंवैसूर्यमिति निगतव्याख्यैषा अत्रयस्तंसूर्यंअन्वविन्दन् इन्द्रार्थंसोमयाग्देवतास्तुतिनमस्कारैः अनुक्रमेणईषत्तमोविरुध्यलब्धवन्तइत्यर्थःअन्येनह्यशक्रुवन् नलब्धवन्तः खलु ॥ ९ ॥
कोनुवामितिविंशत्यृचंनवमंसूक्तं भौमस्यात्रेरार्षं षोडशीसप्तदश्यावतिजगत्यौ विंश्यैकपदाविराट् शिष्टाः सप्तदशत्रिष्टुभः विश्वेदेवादेवताः तथाचानुक्रान्तं-कोनुविंशतिर्वैश्वदेवंवैतत्षोडश्याद्यतिजगत्यावत्यैकपादेति । विनियोगोलैंगिकः ।