मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् १

संहिता

को नु वां॑ मित्रावरुणावृता॒यन्दि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे ।
ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥

पदपाठः

कः । नु । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽयन् । दि॒वः । वा॒ । म॒हः । पार्थि॑वस्य । वा॒ । दे ।
ऋ॒तस्य॑ । वा॒ । सद॑सि । त्रासी॑थाम् । नः॒ । य॒ज्ञ॒ऽय॒ते । वा॒ । प॒शु॒ऽसः । न । वाजा॑न् ॥

सायणभाष्यम्

हिमित्रावरुणौ देवौ वांयुवां कोनु कःखलुयजमानः ऋतायन् यज्ञमिच्छन् शक्नुयादितिशेषः तस्मात्कृतंमयैवदिवः सदसिद्युलोकसंबन्धिनिस्थाने महोमहतः पार्थिवस्यसदसि ऋतस्योत्पादकस्यांतरिक्षस्यसदसि तद्धेतुत्वात्ताच्छब्द्यं त्रिषुस्थानेषुनोस्मान् त्रासीथां रक्षतं वाशब्दश्चार्थे किंच यज्ञायते यज्ञमिच्छते हविर्दात्रेच मह्यं पशुषोनवाजान् पशुषुसीदतोवाजानन्नानिक्षीरदध्यादीनीवतानियथाप्रयच्छथः तद्वदवतमिति यद्वा नशब्दश्चार्थे पशुषः पशून्वाजांश्चदत्तमित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३