मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् २

संहिता

ते नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो॑ जुषन्त ।
नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं॑ रु॒द्राय॑ मी॒ळ्हुषे॑ स॒जोषा॑ः ॥

पदपाठः

ते । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । जु॒ष॒न्त॒ ।
नमः॑ऽभिः । वा॒ । ये । दध॑ते । सु॒ऽवृ॒क्तिम् । स्तोम॑म् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ ॥

सायणभाष्यम्

तेमित्रादयोदेवाः नोस्माकं सुवृक्तिं स्तोमं शोभनपापादिवर्जनवत् स्तोत्रं नमोभिर्वाहविर्भिश्च जुषंत सेवन्तां येदधतेधारयन्ति उक्तलक्षणंस्तोत्रं देवाःद्विविधाः स्तोत्रभाजोहविर्भाजश्च अत्रस्तोत्रभाजउच्यन्ते आयुः सततगतिर्वायुरुच्यते अथमरुतएववियुज्यविशेष्यन्ते रुद्रायमीह्ळुषे तृतीयार्थेचतुर्थी रुद्रेणसहसजोषाः सजोषसः सहप्रीयमाणाः तेषांपुत्रत्वादितिभावः केचन रुद्रायसजोषाइत्येतन्मित्रादिसर्वदेवताविशेषणमितिकथयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३