मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् ४

संहिता

प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः ।
पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥

पदपाठः

प्र । स॒क्षणः॑ । दि॒व्यः । कण्व॑ऽहोता । त्रि॒तः । दि॒वः । स॒ऽजोषाः॑ । वातः॑ । अ॒ग्निः ।
पू॒षा । भगः॑ । प्र॒ऽभृ॒थे । वि॒श्वऽभो॑जाः । आ॒जिम् । न । ज॒ग्मुः॒ । आ॒श्व॑श्वऽतमाः ॥

सायणभाष्यम्

अत्रलिंगोक्तादेवताः प्रजग्मुरितिसंबन्धः सक्षणोयज्ञंसेवमानाः शत्रूणांसोढावादिव्योदिविभवः कण्वहोता कण्वाऋषयोमेधाविनोवाहोतारआह्वातारोयस्यसतथोक्तः त्रितः त्रिषुक्षित्यादिस्थानेषु तायमानोदिवः सूर्येणसहसजोषाः समानगातिः समानप्रीतिर्वा वातः उक्तलक्षणकोवायुरग्निःपूषापोषकएतन्नामाभगश्चप्रभृथे प्रभरणवत्यस्मिन्यज्ञेउक्ताःसर्वेदेवाः विश्वभोजाविश्वरक्षकाः कृत्स्नात्तारोवा आश्वश्वतमाः प्रकृष्टगमनाश्ववतांश्रेष्ठाः सन्तः आजिंन संग्राममिव प्रजग्मुः प्रगच्छन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३