मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् ५

संहिता

प्र वो॑ र॒यिं यु॒क्ताश्वं॑ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः ।
सु॒शेव॒ एवै॑रौशि॒जस्य॒ होता॒ ये व॒ एवा॑ मरुतस्तु॒राणा॑म् ॥

पदपाठः

प्र । वः॒ । र॒यिम् । यु॒क्तऽअ॑श्वम् । भ॒र॒ध्व॒म् । रा॒यः । एषे॑ । अव॑से । द॒धी॒त॒ । धीः ।
सु॒ऽशेवः॑ । एवैः॑ । औ॒शि॒जस्य॑ । होता॑ । ये । वः॒ । एवाः॑ । म॒रु॒तः॒ । तु॒राणा॑म् ॥

सायणभाष्यम्

हेमरुतोवोयूयं रयिं धनं युक्ताश्वं अश्वसहितं अशयोग्यंपुत्रंवाप्रभरध्वं संपादयत रायोधनानि गवाश्वादिलक्षणानि एषे प्राप्तुं अवसे अवइत्यन्ननाम अन्नाय प्राप्तानां धनानांरक्षणायवाधीः स्तोतादधीत धारयतिस्तुतिम् सचौशिजस्यकक्षीवतोहोतात्रिः एवैर्गन्तव्यैः कामैः गमनसाधनैरश्वैर्वा सुशेवः शेवमितिसुखनाम सुसुखोभवतु हेमरुतस्तुराणांत्वरमाणानांवोयुष्माकंयेएवाः कामाः अश्वावासंतितैरिति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३