मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् ७

संहिता

उप॑ व॒ एषे॒ वन्द्ये॑भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः ।
उ॒षासा॒नक्ता॑ वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो॒ मर्त्या॑य य॒ज्ञम् ॥

पदपाठः

उप॑ । वः॒ । एषे॑ । वन्द्ये॑भिः । शू॒षैः । प्र । य॒ह्वी इति॑ । दि॒वः । चि॒तय॑त्ऽभिः । अ॒र्कैः ।
उ॒षसा॒नक्ता॑ । वि॒दुषी॑ इ॒वेति॑ वि॒दुषी॑ऽइव । विश्व॑म् । आ । ह॒ । व॒ह॒तः॒ । मर्त्या॑य । य॒ज्ञम् ॥

सायणभाष्यम्

हेउषासानक्ता अहोरात्राभिमानिदेवते यह्वी महत्यौ वन्द्येभिर्वन्दनार्हैरितरैः देवैः सहदिवोन्तरिक्षादविशेषेणसर्वप्रदेशात् वोयुष्मभ्यंउपप्रैषे उपप्रापयामिहविः ईषिः प्रापणकर्मास्यादुपप्राभिः समन्वितः शूषैः सुखकरैश्चितयद्भिः ज्ञापयद्भिरर्कैर्मंत्रैः सहोपप्रापयामि हेउक्तेदेवते भवत्यौ विश्वं सर्वंकर्तव्यजातं विदुषीइव जानंत्याविव मर्त्याययजमानाययज्ञमावहतः अभिमुखंप्रापयतः हेति पूरणः यद्वा शूषैरित्यादीनितृतीयाबहुवचनान्तानिवन्द्येभिरित्यस्यविशेषणानीतिकेचिदाहुः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४