मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् ८

संहिता

अ॒भि वो॑ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा॑रं॒ ररा॑णः ।
धन्या॑ स॒जोषा॑ धि॒षणा॒ नमो॑भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे॑ ॥

पदपाठः

अ॒भि । वः॒ । अ॒र्चे॒ । पो॒ष्याऽव॑तः । नॄन् । वास्तोः॑ । पति॑म् । त्वष्टा॑रम् । ररा॑णः ।
धन्या॑ । स॒ऽजोषाः॑ । धि॒षणा॑ । नमः॑ऽभिः । वन॒स्पती॑न् । ओष॑धीः । रा॒यः । एषे॑ ॥

सायणभाष्यम्

अहं पोष्यावतोबहुपोष्यजनयुक्तान् नॄन्कर्मनेतॄन् वोयुष्मानभ्यर्चे अभिपूजयामि स्तौमीत्यर्थः केपुनस्तेयूयं उच्यते-वास्तोष्पतिंत्वष्टारंरराणः स्तोत्रादिभिः क्रीडन् हविर्ददद्वाहंधन्याधनकरीसजोषाः इतरदेवैः सहगच्छन्तीप्रीणयन्तीवा धिषणा वाङ्नामैतत् वाग्देवता एताद्वितीयार्थेप्रथमा उक्तलक्षणांवाणींवनस्पतीनोषधीश्च नमोभिः सहार्चइतिसंबन्धः किमर्थं रायएषे धनानिप्राप्तुम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४