मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् ९

संहिता

तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः ।
प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा॑ नो॒ वर्धा॑न्न॒ः शंसं॒ नर्यो॑ अ॒भिष्टौ॑ ॥

पदपाठः

तु॒जे । नः॒ । तने॑ । पर्व॑ताः । स॒न्तु॒ । स्वऽए॑तवः । ये । वस॑वः । न । वी॒राः ।
प॒नि॒तः । आ॒प्त्यः । य॒ज॒तः । सदा॑ । नः॒ । वर्धा॑त् । नः॒ । शंस॑म् । नर्यः॑ । अ॒भिष्टौ॑ ॥

सायणभाष्यम्

पर्वताः पर्ववन्तः पुराणवन्तोमेघाः तनेविस्तृतेतुजेदाने यद्वा तनेतिपुत्रनाम षष्ठ्यर्थेचतुर्थी पुत्रस्यदानइत्यर्थः अथवा नस्तुजेपुत्रेतनेतत्पुत्रेच स्वैतवः शोभनमनाः सन्तु भवन्तु कीदृशास्ते येवसवः जगतोवासयितारः वीरान वीराइव किंच पनितः स्तुतः आप्त्यः आप्तव्यः सर्वैर्यजतोयजनीयआदित्यः सदासर्वदा नः शंसं अस्माकंस्तुतिं नर्योनरेभ्योहितोदेवः अभिष्टौ अभिगतएषणे अभिगमनेवासति वर्धात् वर्दयेत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४