मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् ११

संहिता

क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य ।
आप॒ ओष॑धीरु॒त नो॑ऽवन्तु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥

पदपाठः

क॒था । म॒हे । रु॒द्रिया॑य । ब्र॒वा॒म॒ । कत् । रा॒ये । चि॒कि॒तुषे॑ । भगा॑य ।
आपः॑ । ओष॑धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना॑ । गि॒रयः॑ । वृ॒क्षऽके॑शाः ॥

सायणभाष्यम्

बयमत्रयः कथा केनप्रकारेण महे महते रुद्रियाय रुद्रपुत्राय मरुद्गणाय ब्रवाम स्तुतीः कत् किंच स्तोत्रं राये धनलाभाय चिकितुषे सर्वंजानते भगायैतन्नामकायदेवायब्रवाम उतापिच आपः अब्देवताः ओषधीरोषधयोद्यौर्द्युदेवतावनावनानि गिरयोवृक्षकेशाः वृक्षाएवकेशस्थानीयायेषांते एता उक्तदेवतानोस्मानवन्तुरक्षन्तु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५