मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् १२

संहिता

शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिर॒ः स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा ।
शृ॒ण्वन्त्वाप॒ः पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रे॑ः ॥

पदपाठः

शृ॒णोतु॑ । नः॒ । ऊ॒र्जाम् । पतिः॑ । गिरः॑ । सः । नभः॑ । तरी॑यान् । इ॒षि॒रः । परि॑ऽज्मा ।
शृ॒ण्वन्तु॑ । आपः॑ । पुरः॑ । न । शु॒भ्राः । परि॑ । स्रुचः॑ । ब॒बृ॒हा॒णस्य॑ । अद्रेः॑ ॥

सायणभाष्यम्

नोस्माकंगिरः स्तुतीः श्रृणोतु कः उर्जांबलानांपतिर्वायुः अथवाऊर्जामन्नानांपतिः प्राणोपाधिकस्यवायोः कृत्स्नात्तृत्वंप्रसिद्धं श्रुतिश्चभवतिप्राणस्यान्नमिदंसर्वंप्रजापतिरकल्पयदिति । सः नभोनभसिचारी तरीयान् तरितव्यः इषिरोगमनशीलः परिज्मापरितोगन्ता किंच आपः शृण्वन्तु गिरः कीदृश्यस्ताः पुरोन पुराणीव शुभ्राः दीप्ताः बबृहाणस्यवर्धमानस्यअद्रेर्मेघस्य वापर्वतस्यवापरिपरितः स्रुचः सरणशीलाः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५