मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् १५

संहिता

प॒देप॑दे मे जरि॒मा नि धा॑यि॒ वरू॑त्री वा श॒क्रा या पा॒युभि॑श्च ।
सिष॑क्तु मा॒ता म॒ही र॒सा न॒ः स्मत्सू॒रिभि॑रृजु॒हस्त॑ ऋजु॒वनि॑ः ॥

पदपाठः

प॒देऽप॑दे । मे॒ । ज॒रि॒मा । नि । धा॒यि॒ । वरू॑त्री । वा॒ । श॒क्रा । या । पा॒युऽभिः॑ । च॒ ।
सिस॑क्तु । मा॒ता । म॒ही । र॒सा । नः॒ । स्मत् । सू॒रिऽभिः॑ । ऋ॒जु॒ऽहस्ता॑ । ऋ॒जु॒ऽवनिः॑ ॥

सायणभाष्यम्

जरिमास्तुतिर्मेमदीयापदेपदे तदातदाभूमौनिधायि निधीयते स्थाप्यते क्रियतइत्यर्थः याचशक्रा शक्तासती पायुभीरक्षणैः वरूत्री अस्मदुपद्रववारयित्रीभवति वाशब्दश्चार्थे मातासर्वस्यनिर्मात्री मही महती पूज्या रसा सारभूताभूमिः सिषक्तु सेवतां नोस्माकं स्तुतिं अथवा स्तुतानोस्मान् सिषक्तु स्मच्छब्दः प्रशस्तवचनः प्रशस्तैः सूरिभिः मेधाविभिः स्तोतृभिः निमित्तैः तेषांपरिचर्ययाप्रीतेत्यर्थः ऋजुहस्ताअस्मदनुकूलहस्ताऋजुवनिः कल्याणदानाभवतु ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५