मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् १

संहिता

प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः ।
पृष॑द्योनि॒ः पञ्च॑होता शृणो॒त्वतू॑र्तपन्था॒ असु॑रो मयो॒भुः ॥

पदपाठः

प्र । शम्ऽत॑मा । वरु॑णम् । दीधि॑ती । गीः । मि॒त्रम् । भग॑म् । अदि॑तिम् । नू॒नम् । अ॒श्याः॒ ।
पृष॑त्ऽयोनिः । पञ्च॑ऽहोता । शृ॒णो॒तु॒ । अतू॑र्तऽपन्थाः । असु॑रः । म॒यः॒ऽभुः ॥

सायणभाष्यम्

शंतमा अत्यन्तसुखकरी गीः स्तुतिरूपावाक् वरुणंमित्रंभगंअदितिंच दिधिती दीधित्याकर्मणा हविः प्रक्षेपणात्मकेनसह नूनमवितथं प्राश्याः प्राप्नोतु किंच पृषद्योनिः पृषद्वर्णान्तरिक्षस्थः पंचहोता पंचविधस्यप्राणापानादिहोमस्यसाधकोवायुः यद्वा पंचहोतेतिवायोर्नाम वायुःपंचहोतासप्राणइतिहिश्रुतेः । सचातूर्तपन्थाः अहिंसितगतिः असुरःप्राणस्यदाता मयोभुःसुखस्यास्पदभूतः एवमुक्तलक्षणोवायुः श्रृणोतुस्तोत्रमिति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७