मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् २

संहिता

प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेव॑म् ।
ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥

पदपाठः

प्रति॑ । मे॒ । स्तोम॑म् । अदि॑तिः । ज॒गृ॒भ्या॒त् । सू॒नुम् । न । मा॒ता । हृद्य॑म् । सु॒ऽशेव॑म् ।
ब्रह्म॑ । प्रि॒यम् । दे॒वऽहि॑तम् । यत् । अस्ति॑ । अ॒हम् । मि॒त्रे । वरु॑णे । यत् । म॒यः॒ऽभुः ॥

सायणभाष्यम्

मेमदीयं स्तोमंस्तोत्रं अदितिर्देवता प्रतिजगृभ्यात् प्रतिगृह्णातु सूनुंनमाता स्वतनुजंजननीव सायथाप्रतिगृह्यआलिंग्फ़्यपरितुष्यति तद्वदित्यर्थः कीदृशंतं हृद्यंहृदयंगमं सुशेवं शोभनसुखकरं एतद्वयंसाधारणं किंच ब्रह्म मंत्रजातं प्रियंप्रियकरं देवहितं देवैःप्राप्यंयदस्ति यद्ब्रह्म मयोभु सुखसाधनंतदहंमित्रेवरुणेचप्रापयामीतिशेषः यद्वा मित्रेवरुणेच अहोरात्राभिमानिदेवयोः यदुक्तलक्षणं ब्रह्म परिवृढं यज्ञादिरूपं कर्मास्तितदहंधारयामीति ॥ २ ॥ उदीरयेत्येषा एकादशिनेसावित्रेपशौवपायाज्या सूत्रितंच-उदीरयकवितमंकवीनांभगंधियंवाजयन्तः पुरंधिमितिद्वेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७