मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् ४

संहिता

समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒ः सं सू॒रिभि॑र्हरिव॒ः सं स्व॒स्ति ।
सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥

पदपाठः

सम् । इ॒न्द्र॒ । नः॒ । मन॑सा । ने॒षि॒ । गोभिः॑ । सम् । सू॒रिऽभिः॑ । ह॒रि॒ऽवः॒ । सम् । स्व॒स्ति ।
सम् । ब्रह्म॑णा । दे॒वऽहि॑तम् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒त्या । य॒ज्ञिया॑नाम् ॥

सायणभाष्यम्

हेइन्द्र नोस्मान् मनसा प्रकृष्टेनचेतसा गोभिःसह संनेषिनयसि अस्मभ्यंगाःदापयसीत्यर्थः एवंसर्वत्र हेहरिवः हरिभ्यांतद्वन्निन्द्र सूरिभिर्मेधाविभिः पुत्रैरृत्विग्भिर्वा सन्नेषि तथा स्वस्तिभिःक्षेमैः संनेषि ब्रह्मणा प्रभूतेनान्नेनसंनेषि यदन्नंदेवहितमस्ति तेन किंच यज्ञियानां यज्ञार्हाणांदेवानां सुमत्या अनुग्रहबुद्भ्यासंनेषि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७