मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् ६

संहिता

म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यत॒ः प्र ब्र॑वामा कृ॒तानि॑ ।
न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑न॒ः कश्च॒नाप॑ ॥

पदपाठः

म॒रुत्व॑तः । अप्र॑तिऽइतस्य । जि॒ष्णोः । अजू॑र्यतः । प्र । ब्र॒वा॒म॒ । कृ॒तानि॑ ।
न । ते॒ । पूर्वे॑ । म॒घ॒ऽव॒न् । न । अप॑रासः । न । वी॒र्य॑म् । नूत॑नः । कः । च॒न । आ॒प॒ ॥

सायणभाष्यम्

वयं यजमानामरुत्वतोमरुद्भिस्तद्वतइन्द्रस्य कृतानि कर्माणि प्रब्रवाम प्रख्यापयाम कीदृशस्य तस्य अप्रतीतस्य अप्रतिगतस्य युद्धे अपलायमानस्य नकेवलंतावन्मात्रं जिष्णोर्जयनशीलस्य अजूर्यतः अजीर्यमाणस्य सर्वदायूनइत्यर्थः अथप्रत्यक्षेणोच्यते हेमघवन्निन्द्र तेतव वीर्यं पराक्रमं पूर्वेपुरातनाः पुरुषाःनापुः नापरासोअपरेपिनापुः किंबहुना नूतनःकश्चनआश्चर्यभूतोयः कोपिवीर्यंनाप नप्राप्नोति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८