उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नाम् ।
यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ॥
उप॑ । स्तु॒हि॒ । प्र॒थ॒मम् । र॒त्न॒ऽधेय॑म् । बृह॒स्पति॑म् । स॒नि॒तार॑म् । धना॑नाम् ।
यः । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठः । पु॒रु॒ऽवसुः॑ । आ॒ऽगम॑त् । जोहु॑वानम् ॥
हेअन्तरात्मन् त्वं प्रथमंमुख्यंप्रकृष्टतममित्यर्थः रत्नधेयं रमणीयधनदातारं धनानां हविर्लक्षणानां सनितारं संभक्तारं अथवा रत्नशब्देनमणिमुक्तादयोगृहीताः इह धनशब्देन गवादयः गवादिदातारं बृहस्पतिं बृहतोमंत्रस्यपतिंस्वामिनंदेवं उपस्तुहि देवःशंसते स्तोत्रैः स्तुवते सामभिर्यजमानाय शंभविष्ठः सुखस्यभावयितृतमोभवति यश्च जोहुवानं आह्वयन्तं यजमानं पुरुवसुः प्रभूतधनः सन् आगमत् आगच्छति तमुपस्तुहि ॥ ७ ॥