मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् ८

संहिता

तवो॒तिभि॒ः सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा॑नः सु॒वीरा॑ः ।
ये अ॑श्व॒दा उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ॥

पदपाठः

तव॑ । ऊ॒तिऽभिः॑ । सच॑मानाः । अरि॑ष्टाः । बृह॑स्पते । म॒घऽवा॑नः । सु॒ऽवीराः॑ ।
ये । अ॒श्व॒ऽदाः । उ॒त । वा॒ । सन्ति॑ । गो॒ऽदाः । ये । व॒स्त्र॒ऽदाः । सु॒ऽभगाः॑ । तेषु॑ । रायः॑ ॥

सायणभाष्यम्

हेबृहस्पते तवोतिभिः रक्षाभिः सचमानाः संगच्छमानाः अरिष्टाः अहिंसिताः मघवानोधनवन्तः सुवीराः शोभनपुत्राश्चभवन्ति येत्वदनुगृहीताः अश्वदाः बहूनामश्वानांदातारःसन्ति उतवा अथवा गोदाःसन्ति येच वस्त्रदाः सुभगाः शोभनधनाः सन्ति तेषुर्वेषु रायोधनानि संभवंत्वितिशेषः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८