मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् ९

संहिता

वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भु॒ञ्जते॒ अपृ॑णन्तो न उ॒क्थैः ।
अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विष॒ः सूर्या॑द्यावयस्व ॥

पदपाठः

वि॒ऽस॒र्माण॑म् । कृ॒णु॒हि॒ । वि॒त्तम् । ए॒षा॒म् । ये । भु॒ञ्जते॑ । अपृ॑णन्तः । नः॒ । उ॒क्थैः ।
अप॑ऽव्रतान् । प्र॒ऽस॒वे । व॒वृ॒धा॒नान् । ब्र॒ह्म॒ऽद्विषः॑ । सूर्या॑त् । य॒व॒य॒स्व॒ ॥

सायणभाष्यम्

एषां वक्ष्यमाणानां वित्तं धनं विसर्माणं विसरणशीलं कृणुहिकुरु हेब्रह्मणस्पते एषामित्युक्तंकेषामित्याह येभुंजते अपृणन्तोअप्रयच्छन्तः केभ्यःउक्थैः स्तुतिप्रतिपादकैः शस्त्रैर्विशिष्टेभ्योनोस्मभ्यं तानपव्रतान् अपगतकर्मणः प्रसवे उत्पत्तिमतिमनुष्यलोके ववृधानान् वर्धमानान् ब्रह्मद्विषोब्राह्मणद्वेष्टृन् मन्त्रद्वेष्टृन् वासूर्यात् यवयस्व पृथक्कुरु अन्धकारेस्थापयेत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८