मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् ११

संहिता

तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥

पदपाठः

तम् । ऊं॒ इति॑ । स्तु॒हि॒ । यः । सु॒ऽइ॒षुः । सु॒ऽधन्वा॑ । यः । विश्व॑स्य । क्षय॑ति । भे॒ष॒जस्य॑ ।
यक्ष्व॑ । म॒हे । सौ॒म॒न॒साय॑ । रु॒द्रम् । नमः॑ऽभिः । दे॒वम् । असु॑रम् । दु॒व॒स्य॒ ॥

सायणभाष्यम्

हेआत्मन् तमु तमेवरुद्रं स्तुहि स्तुतिंकुरु यःस्विषुः शोभनबाणः सुधन्वाच विरोधिहंतृत्वात् सुष्ठुत्वं यश्च विश्वस्यभेषजस्य सर्वस्यौषधस्यक्षयति ईश्वरोभवति शारीरस्य सांसारिकस्यवारिष्टस्यशमनायेश्वरसेवातिरिक्तस्यौषधस्याभावात् भिषक्तमत्वाच्चास्यभेषजस्वामित्वं भिषक्तमंत्वाभिषजांश्रृणोमिइत्यादिश्रुतेः । किंच तमेवरुद्रं दुःखात्तत्साधनाद्दुरिताद्वा मोचयितारंदेवं यश्व यजच महे महते सौमनसाय सुमनस्त्वाय ईश्वराराधनाच्चित्तशांतिः प्रसिद्धा किंच नयोभिर्हविर्भिर्नमस्कारैर्वा देवं द्योतमानं असुरम् प्रकृष्ठासुंबलवंतमित्यर्थः यद्वा प्राणदातारंरुद्रंदुवस्यपरिचरेति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९