मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् १२

संहिता

दमू॑नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्ण॒ः पत्नी॑र्न॒द्यो॑ विभ्वत॒ष्टाः ।
सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती॑र्वरिवस्यन्तु शु॒भ्राः ॥

पदपाठः

दमू॑नसः । अ॒पसः॑ । ये । सु॒ऽहस्ताः॑ । वृष्णः॑ । पत्नीः॑ । न॒द्यः॑ । वि॒भ्व॒ऽत॒ष्टाः ।
सर॑स्वती । बृ॒ह॒त्ऽदि॒वा । उ॒त । रा॒का । द॒श॒स्यन्तीः॑ । व॒रि॒व॒स्य॒न्तु॒ । शु॒भ्राः ॥

सायणभाष्यम्

अत्रलिंगोक्तदेवताः दमूनसोदानमनसोदान्तमनसोवा अपसः चमसाश्वरथगवादिशोभनकर्मंवन्तः मत्वर्थोलुप्यते अतएव सुहस्ताः कुशलहस्तायेसन्ति तेऋभवः वृष्णः वर्षकस्येन्द्रस्य पत्नीः पत्न्यः पालयित्र्यः नद्योनदनशॊलागंगाद्याः विश्वतष्टाः ऋभूणांमध्यमेनकृताः सरस्वती एतन्नामिकानदीवाग्देवीवा बृहद्दिवा प्रभूतदीप्तिः उत अपिच राकादेवीच दशस्यन्तीर्दशस्यंत्यः कामान्प्रयच्छन्त्यः शुभ्रादीप्तास्ताश्चवरिवस्यन्तु अस्मभ्यंधनमिच्छन्तु ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९