मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् १३

संहिता

प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानाम् ।
य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ॥

पदपाठः

प्र । सु । म॒हे । सु॒श॒र॒णाय॑ । मे॒धाम् । गिर॑म् । भ॒रे॒ । नव्य॑सीम् । जाय॑मानाम् ।
यः । आ॒ह॒नाः । दु॒हि॒तुः । व॒क्षणा॑सु । रू॒पा । मि॒ना॒नः । अकृ॑णोत् । इ॒दम् । नः॒ ॥

सायणभाष्यम्

सु सुष्ठु प्रभरे प्रकर्षेणसंपादयामि महे महते सुशरणाय शोभनरक्षकायेन्द्राय पर्जन्यायवासुसुखायवा किं मेधां मतौधीयमानां गिरं स्तुतिं कीदृशीं नव्यसीं नवतरांअतिशयेनस्तुत्यांवाजायमानां इदानींउत्पद्यमानांनूतनामित्यर्थः यइन्द्रः पर्जन्योवा आहना आहन्तासेक्ता दुहितुर्दुहितृस्थानीयायाः पृथिव्याः हिताय वक्षणासु नदीषु रूपा रूपाणि मिनानः कुर्वाणइदमुदकंनोस्माभ्यंअकृणोत् करोतु ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९