मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् १४

संहिता

प्र सु॑ष्टु॒तिः स्त॒नय॑न्तं रु॒वन्त॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः ।
यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥

पदपाठः

प्र । सु॒ऽस्तु॒तिः । स्त॒नय॑न्तम् । रु॒वन्त॑म् । इ॒ळः । पति॑म् । ज॒रि॒तः॒ । नू॒नम् । अ॒श्याः॒ ।
यः । अ॒ब्दि॒ऽमान् । उ॒द॒नि॒ऽमान् । इय॑र्ति । प्र । वि॒ऽद्युता॑ । रोद॑सी॒ इति॑ । उ॒क्षमा॑णः ॥

सायणभाष्यम्

अत्रेपर्जन्यः स्तूयते सुष्टुतिः शोभनास्तुतिः स्तनयन्तं गर्जन्तं रुवन्तं वर्षणजनितंशब्दंकुर्वाणं इळः अन्नस्योदकस्यवापतिंस्वामिनं हेजरितः स्तोतः त्वदीयास्तुतिः नूनंप्राश्याः प्रकर्षेणव्याप्नोतु यश्चपर्जन्यः अब्दिमान् अब्दिः अपांदानवान् मेघःतद्वान् उदनिमान् उदकवान् विद्युता तडिता रोदसी द्यावापृथिव्यावुक्षमाणः सिंचन् प्रेयर्तिगच्छति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९