मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् १५

संहिता

ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा॑ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः ।
कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ॥

पदपाठः

ए॒षः । स्तोमः॑ । मारु॑तम् । शर्धः॑ । अच्छ॑ । रु॒द्रस्य॑ । सू॒नून् । यु॒व॒न्यून् । उत् । अ॒श्याः॒ ।
कामः॑ । रा॒ये । ह॒व॒ते॒ । मा॒ । स्व॒स्ति । उप॑ । स्तु॒हि॒ । पृष॑त्ऽअश्वान् । अ॒यासः॑ ॥

सायणभाष्यम्

एषमयासंपादितः स्तोमः स्तोत्रं मारुतंशर्धः मरुतांबलं अच्छ अभिमुखं अश्याः प्राप्नोतु समुदायरूपेणस्तुत्वा समुदायिरूपेणाह-रुद्रस्यसूनून् एषांरुद्रेणपुत्रत्वेनपरिकॢप्तिरसकृदुक्ता युवन्यून् यूनोमिश्रणेच्छून् वा उत् उन्नतं अत्यधिकं अश्याः व्याप्नुहि हेमनः कामः संकल्पोरायेधनार्थं मा मां स्वस्ति अविनश्वरं हवते आह्वयति प्रेरयतीत्यर्थः यस्मादेवंतस्मात् पृषदश्वान् पृषद्वर्णाशोपेतान् अयासोयज्ञगंतॄन् उप अपेत्य स्तुहि ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९