मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् १६

संहिता

प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः ।
दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥

पदपाठः

प्र । ए॒षः । स्तोमः॑ । पृ॒थि॒वीम् । अ॒न्तरि॑क्षम् । वन॒स्पती॑न् । ओष॑धीः । रा॒ये । अ॒श्याः॒ ।
दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥

सायणभाष्यम्

एषःस्तोमःस्तुतिः पृथिव्यादिदेवताः प्राश्याःप्राप्नोतु किमर्थं राये धनार्थं देवोदेवः सर्वोपिदेवः मह्यं मदर्थं सुहवोभूतु स्वाह्वानोभवतु नोस्मान् दुर्मतौ माता सर्वस्यनिर्मात्री यद्वात्रेर्भौमत्वाद्विशेषेणमाता तादृशीपृथिवी माधात् मास्थापयतु ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९