मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् ४

संहिता

दश॒ क्षिपो॑ युञ्जते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा॑ सु॒हस्ता॑ ।
मध्वो॒ रसं॑ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ॥

पदपाठः

दश॑ । क्षिपः॑ । यु॒ञ्ज॒ते॒ । बा॒हू इति॑ । अद्रि॑म् । सोम॑स्य । या । श॒मि॒तारा॑ । सु॒ऽहस्ता॑ ।
मध्वः॑ । रस॑म् । सु॒ऽगभ॑स्तिः । गि॒रि॒ऽस्थाम् । चनि॑श्चदत् । दु॒दु॒हे॒ । शु॒क्रम् । अं॒शुः ॥

सायणभाष्यम्

अत्राभिषवस्यप्रतिपाद्यमानत्वात् सोमोदेवता यद्वाऎन्द्री अद्रिमभिषवग्रावाणं दशक्षिपोदशसंख्याकाः क्षेप्त्योंगुलयोयुंजतेगृह्णन्ति यद्वा परस्परंयुक्ताभवन्ति बाहू अप्यध्वर्युसंबंधिनावद्रिंयुंजाते या यौ सुहस्ता शोभनहननौ सोमस्यशमिताराऽभिषोतारौ तौबाहू युंजाते मध्वोमधुरस्यसोमस्यरसं गिरिष्ठांगिरिस्थायिनं गिरिवदुन्नतप्रदेशस्थितंवा सुगभस्तिः शोभनांगुलिरध्वर्युः चनिश्चदत् आह्लादयन् चदिआह्लादनेइत्यस्मात् यङ्लुकिछान्दसंरूपं दुदुहे दोग्धि सचांशुः शुक्रं निर्मलंरसं दुदुहे दुग्धे यद्वैकंवाक्यं अंशुर्व्याप्तः सुगभस्तिः सुहस्तोध्वर्युर्मध्वोरसं दुदुहे दोग्धि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०