मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् ५

संहिता

असा॑वि ते जुजुषा॒णाय॒ सोम॒ः क्रत्वे॒ दक्षा॑य बृह॒ते मदा॑य ।
हरी॒ रथे॑ सु॒धुरा॒ योगे॑ अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा॑नः ॥

पदपाठः

असा॑वि । ते॒ । जु॒जु॒षा॒णाय॑ । सोमः॑ । क्रत्वे॑ । दक्षा॑य । बृ॒ह॒ते । मदा॑य ।
हरी॒ इति॑ । रथे॑ । सु॒ऽधुरा॑ । योगे॑ । अ॒र्वाक् । इन्द्र॑ । प्रि॒या । कृ॒णु॒हि॒ । हू॒यमा॑नः ॥

सायणभाष्यम्

हेइन्द्र तेतुभ्यं जुजुषाणाय सेवमानाय सोमःअसावि अभिषुतः किमर्थं क्रत्वे क्रतवे वृत्रवधादिकर्मणे दक्षाय बलाय बृहतेमदायच यस्मादेवंतस्मात् हेइन्द्र त्वं हूयमानःसन् सुधुरा शोभनायांधुरिनियुक्तौप्रिया प्रियौ हरीअश्वौ योगे योगार्हेयुक्तेवा रथेयोजयित्वा तंरथंअर्वागस्मदभिमुखंकृणुहिकुरु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०