मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् ६

संहिता

आ नो॑ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह॑व्याम् ।
मधो॒र्मदा॑य बृह॒तीमृ॑त॒ज्ञामाग्ने॑ वह प॒थिभि॑र्देव॒यानै॑ः ॥

पदपाठः

आ । नः॒ । म॒हीम् । अ॒रम॑तिम् । स॒ऽजोषाः॑ । ग्नाम् । दे॒वीम् । नम॑सा । रा॒तऽह॑व्याम् ।
मधोः॑ । मदा॑य । बृ॒ह॒तीम् । ऋ॒त॒ऽज्ञाम् । आ । अ॒ग्ने॒ । व॒ह॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥

सायणभाष्यम्

अत्राग्निंसंबोध्य ग्नादेवतायाआवाह्यत्वात् अस्याग्निर्ग्रावादेवता हेअग्ने सजोषाः अस्माभिः शप्रीयमाणस्त्वं ग्नां देवीं सर्वैर्गन्तव्यांएतन्नामिकांदेवतां मेनाग्नाइतिस्त्रीणामितियास्कः । नोस्मदर्थं देवयानैर्देवैर्गंतव्यैः पर्थिभिर्मार्गैः अभिमुखंआवह कीदृशीं महीं महतीं अरमतिं आसमन्तात् रममाणां सर्वत्रगन्त्रींवा नमसा स्तोत्रेणसह रातहव्यां रातंदत्तंदानायसंकल्पितंह्रव्यंयस्याः तांदत्तहविष्कामित्यर्थः किमर्थं मधोर्मधुरस्यसोमस्यमदाय पुनः कीदृशीं बृहतीं प्रवृद्धां ऋतज्ञां यज्ञमभिजानतीं ॥ ६ ॥ प्रवर्ग्येमहावीरेअज्यमानेअंजन्तियमित्येषा सूत्रितंच-अंजन्तियंप्रथयन्तोनविप्राइत्यज्यमानइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१