मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् ९

संहिता

प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि ।
या राध॑सा चोदि॒तारा॑ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ॥

पदपाठः

प्र । तव्य॑सः । नमः॑ऽउक्तिम् । तु॒रस्य॑ । अ॒हम् । पू॒ष्णः । उ॒त । वा॒योः । अ॒दि॒क्षि॒ ।
या । राध॑सा । चो॒दि॒तारा॑ । म॒ती॒नाम् । या । वाज॑स्य । द्र॒वि॒णः॒ऽदौ । उ॒त । त्मन् ॥

सायणभाष्यम्

अहमृषिः स्तव्यसः प्रकृष्टबलस्य तुरस्य त्वरमाणस्य पूष्णः पोषकस्य देवस्य उक्तगुणकायदेवाय उतापिच वायोरुक्तगुणायच नमउक्तिं नमइतिवचनंस्तोत्रं प्रादिक्षिप्रदिशामि या योपूषवायू राधसा हविर्लक्षणेननिमित्तेन मतीनांचोदिताराप्रेरयितारौ यद्वा राधसेतिषष्ठ्यर्थेतृतीया राधसोधनस्यमतीनांच चोदयितारौ यौच वाजस्यान्नस्यसंग्रामस्यवा चोदयितारौ तौदेवौ उतअपिच त्मन् आत्मनि अनन्यप्रेरणायैव द्रविणोदौभवतमितिशेषः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१