मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् १०

संहिता

आ नाम॑भिर्म॒रुतो॑ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः ।
य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे॑ गन्त मरुतो॒ विश्व॑ ऊ॒ती ॥

पदपाठः

आ । नाम॑ऽभिः । म॒रुतः॑ । व॒क्षि॒ । विश्वा॑न् । आ । रू॒पेभिः॑ । जा॒त॒ऽवे॒दः॒ । हु॒वा॒नः ।
य॒ज्ञम् । गिरः॑ । ज॒रि॒तुः । सु॒ऽस्तु॒तिम् । च॒ । विश्वे॑ । ग॒न्त॒ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती ॥

सायणभाष्यम्

हेजातवेदः जातप्रज्ञाग्ने हुवानोस्माभिराहूयमानःसन् विश्वान् मरुतः सर्वानपिस्तोत्रभाजोहविर्भाजश्चदेवान् नामभिरिन्द्रवरुणेत्यादिलक्षणैरावक्षिआवहसि रूपेभिः सहस्राक्षवज्रहस्तत्वादिलक्षणैरूपैः आवक्षि वहसियज्ञम् किंच हेमरुतो विश्वेसर्वेयूयंयज्ञमस्मदीयंयज्ञसंबंधिहविर्वा जरितुः स्तोतुःसंबन्धिनीर्गिरः स्तुतिवचांसि सुष्टुतिं तत्साध्यांशोभनफलांस्तुतिंच अवयविन्यास्तुतेरेकत्वादेकवचनं अवयवानां बहुत्वाद्बहुवचनं उक्ते यज्ञस्तुती अभिलक्ष्य गन्त आगच्छत विश्वेच यूयमूती ऊत्यारक्षयाच सहगन्त ॥ १० ॥ आनोदिवइत्येकादशी व्यूढेदशरात्रेनवमेहनिप्रउगशस्त्रेसारस्वततृचेद्वितीया सूत्रितंच-आनोदिवोबृहतः पर्वतादासरस्वत्यभिनोने -षिवस्यइतितत्पाठस्तु ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१