मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् ११

संहिता

आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् ।
हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥

पदपाठः

आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । सर॑स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञम् ।
हव॑म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची॑ । श॒ग्माम् । नः॒ । वाच॑म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥

सायणभाष्यम्

नोस्माकंयज्ञं यजता यष्टव्या देवी सरस्वती दिवोद्योतमानात् द्युलोकादागन्तु आगच्छतु तथा बृहतोमहतः पर्वतात् पर्ववतः पूरणवतः प्रीणनवतोवान्तरिक्षान्मेघाद्वा सरस्वती आगन्तुआगच्छतु अनेनमाध्यमिकीवागुच्यते यद्वैतद्दिवइत्यस्यविशेषणं सन्तिहिद्युलोकस्य त्रीणिपर्वाणितिस्रोदिवः पृथिवीरित्यादिश्रुतेः । अस्मिन् पक्षेद्वितीयआकारः पूरणः तदर्थं हवमस्मदीयमाह्वानं देवी सरस्वती जुजुषाणा स्तुतिंसेवमाना घृताची घृतमुदकमंचती नोस्मदीयांशग्मां सुखकरीं वाचं स्तुतिमुशतीकामयमानासतीशृणोतु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२