मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् १२

संहिता

आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम् ।
सा॒दद्यो॑निं॒ दम॒ आ दी॑दि॒वांसं॒ हिर॑ण्यवर्णमरु॒षं स॑पेम ॥

पदपाठः

आ । वे॒धस॑म् । नील॑ऽपृष्ठम् । बृ॒हन्त॑म् । बृह॒स्पति॑म् । सद॑ने । सा॒द॒य॒ध्व॒म् ।
सा॒दत्ऽयो॑निम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । हिर॑ण्यऽवर्णम् । अ॒रु॒षम् । स॒पे॒म॒ ॥

सायणभाष्यम्

एषाबार्हस्पत्या हेऋत्विजोयूयं बृहस्पतिं बृहतोमंत्रस्य्स्वामिनं देवं सदनेस्मद्यागगृहे आसादयध्वं स्थापयध्वं कीदृशंदेवं वेधसं विविधकर्तारं नीलपृष्ठं स्निग्धांगं बृहन्तं महान्तं तथासन्तंवयमृत्विग्यजमानाः सपेम परिचरेम सएवविशेष्यते सादद्योनिं योनौसीदन्तं दमे यागगृहे आसर्वतोदीदिवांसंदीप्यमानं हिरण्यवर्णं हितरमणीयवर्णं अरुषमारोचमानं अथवेयमाग्नेयी बृहतः परिवृढस्यकर्मणः स्वामीतिबृहस्पतिरग्निरुच्यते तथानीलवर्णधूमपृष्ठत्वसदनसादनहिरण्यवर्णत्वादिलिंगैरप्यग्निरेवबृहस्पतिः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२