मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् १३

संहिता

आ ध॑र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा॑णो॒ विश्वे॑भिर्ग॒न्त्वोम॑भिर्हुवा॒नः ।
ग्ना वसा॑न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः ॥

पदपाठः

आ । ध॒र्ण॒सिः । बृ॒हत्ऽदि॑वः । ररा॑णः । विश्वे॑भिः । ग॒न्तु॒ । ओम॑ऽभिः । हु॒वा॒नः ।
ग्नाः । वसा॑नः । ओष॑धीः । अमृ॑ध्रः । त्रि॒धातु॑ऽशृङ्गः । वृ॒ष॒भः । व॒यः॒ऽधाः ॥

सायणभाष्यम्

इदमाद्यृक्रयंआग्नेयं अग्निरागन्तु आग्च्छतुअस्मद्यज्ञं धर्णसिः सर्वस्यधारकः बृहद्दिवः प्रभूतदीप्तिः रराणोरममाणः कामान्प्रयच्छ्न्वा आविश्वेभिः सर्वैः ओमभिः रक्षणैः सह हुवानः आहूयमानः ग्नाः गंत्रीर्ज्वालाः ओषधीश्च वसानः अमृध्रोअहिंसितः त्रिधातुशृंगः त्रिप्रकारशृंगवदुन्नतः लोहितशुक्लकृष्णवर्णज्वालः वृषभोवर्षिता वयोधाः अन्नस्यदाताहविषोवाधारकः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२