मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् २

संहिता

श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ ।
सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑रृ॒त आ॑स॒ नाम॑ ते ॥

पदपाठः

श्रि॒ये । सु॒ऽदृशीः॑ । उप॑रस्य । याः । स्वः॑ । वि॒ऽरोच॑मानः । क॒कुभा॑म् । अ॒चो॒दते॑ ।
सु॒ऽगो॒पाः । अ॒सि॒ । न । दभा॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । प॒रः । मा॒याभिः॑ । ऋ॒ते । आ॒स॒ । नाम॑ । ते॒ ॥

सायणभाष्यम्

हेइन्द्र स्वः स्वर्गे विरोचमानस्त्वं अचोदते अप्रेरयितुः षष्ठ्यर्थेचतुर्थी उपरस्य मेघस्य संबन्धिन्यः सुदृशीःसुरोचमानायाआपः सन्ति तासामपां ककुभां सर्वासांदिशांमध्ये श्रिये प्राणिनांश्रयणायप्रेरकोभवेतिशेषः हेसुक्रतो शोभनवृष्टिप्रदानादिकर्मकेन्द्र त्वं सुगोपाः प्राणिनांसुष्ठुगोपायितासि अतोनदभाय नदंभनायवधाय प्राणिनांनासि नपभवसि त्वंच मायाभिरासुरीभिः परोमायाभ्यः प्रस्ताद्वर्तमानः यस्मात्तेत्वदीयंनाम नामकं रूपे ऋते सत्यछोके आस आस्ते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३